(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.164. अध्यायः 164
(अथ हिडिम्बवधपर्व ॥ 9 ॥)
Mahabharata - Adi Parva - Chapter Topics
हिडिम्बप्रेरितायाः तद्भगिन्या हिडिम्बायाः पाण्डवसमीपगमनम्॥ 1 ॥
भीमं दृष्ट्वा कामार्ताया हिडिम्बायाः भीमं प्रति वाक्यम्॥ 2 ॥ भीमहिडिम्बासंवादः॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-164-0x(954)(7463)
तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः।
अविदूरे वनात्तस्माच्छालवृक्षं समाश्रितः॥ 1-164-1(7464)
क्रूरो मानुषमांसादो महावीर्यपराक्रमः।
प्रावृड्जलधरश्यामः पिङ्गाक्षो दारुणाकृतिः॥ 1-164-2(7465)
दष्ट्राकरालवदनः करालो भीमदर्शनः।
लम्बस्फिग्लम्बजठरो रक्तश्मश्रुशिरोरुहः॥ 1-164-3(7466)
महावृक्षगलस्कन्धः शङ्कर्णो विभीषणः।
यदृच्छया तानपश्यत्पाण्डुपुत्रान्महारथान्॥ 1-164-4(7467)
विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः।
पिशितेप्सुः क्षुधार्तश्च जिघ्रन्गन्धं यदृच्छया॥ 1-164-5(7468)
ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान्।
जृम्भमाणो महावक्त्रः पुनःपुनरवेक्ष्य च॥ 1-164-6(7469)
हृष्टो मानुषमांसस्य महाकायो महाबलः।
आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत्॥ 1-164-7(7470)
उपपन्नं चिरस्याद्य भक्ष्यं मम मनःप्रियम्।
जिघ्रतः प्रस्रुता स्नेहाज्जिह्वा पर्येति मे मुखात्॥ 1-164-8(7471)
अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः।
देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च॥ 1-164-9(7472)
आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि।
उष्णं नवं प्रपास्यामि फेनलिं रुधिरं बहु॥ 1-164-10(7473)
गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः।
मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे॥ 1-164-11(7474)
हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम्।
अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते॥ 1-164-12(7475)
एषामुत्कृत्य मांसानि मानुषाणां यथेष्टतः।
भक्षयिष्याव सहितौ कुरु पूर्णं वचो मम॥ 1-164-13(7476)
भक्षयित्वा च मांसानि मानुषाणां प्रकामतः।
नृत्याव सहितावावां दत्ततालावनेकशः॥ 1-164-14(7477)
वैशम्पायन उवाच। 1-164-15x(955)
एवमुक्ता हिडिम्बा तु हिडिम्बेन महावने।
भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी॥ 1-164-15(7478)
`आप्लुत्याप्लुत्य च तरूनगच्छत्पाण्डवान्प्रति।'
जगाम तत्र यत्र स्म शेरते पाण्डवा वने॥ 1-164-16(7479)
ददर्श तत्र सा गत्वा पाण्डवान्पृथया सह।
शयानान्भीमसेनं च जाग्रतं त्वपराजितम्॥ 1-164-17(7480)
`उपास्यमानान्भीमेन रूपयौवनशालिनः।
सुकुमारांश्च पार्थान्सा व्यायामेन च कर्शितान्॥ 1-164-18(7481)
दुःखेन संप्रयुक्तांश्च सहज्येष्ठान्प्रमाथिनः।
रौद्री सती राजपुत्रं दर्शनीयप्रदर्शनम्॥' 1-164-19(7482)
दृष्ट्वैव भीमसेनं सा सालस्कन्धमिवोद्यतम्।
राक्षसी कामयामास रूपेणाप्रतिमं भुवि॥ 1-164-20(7483)
`अन्तर्गतेन मनसा चिन्तयामास राक्षसी'।
अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः॥ 1-164-21(7484)
कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम।
नाहं भ्रातृवचो जातु कुर्यां क्रूरमसांप्रतम्॥ 1-164-22(7485)
पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम्।
मुहूर्तमिव तृप्तिश्च भवेद्धातुर्ममैव च॥ 1-164-23(7486)
हतैरेतैरहत्वा तु मोदिष्ये शाश्वतीः समाः।
`निश्चित्येत्थं हिडिम्बा सा भीमं दृष्ट्वा महाभुजं॥ 1-164-24(7487)
उत्सृज्य राक्षसं रूपं मानुषं रूपमास्थिता।'
सा कामरूपिणी रूपं कृत्वा मदनमोहिता॥ 1-164-25(7488)
उपतस्थे महात्मानं भीमसेनमनिन्दिता।
`इङ्गिताकारकुशला सोपासर्पच्छनैः शनैः॥ 1-164-26(7489)
विनम्यमानेव लता दिव्याभरणभूषिता।
शनैः शनैश्च तां भीमः समीपमुपसर्पतीम्॥ 1-164-27(7490)
हर्षमाणां तदा पश्यत्तन्वीं पीनपयोधराम्।
चन्द्राननां पद्मनेत्रां नीलकुञ्चितमूर्धजाम्॥ 1-164-28(7491)
कृष्णां सुपाण्डुरैर्दन्तैर्बिम्बोष्ठीं चारुदर्शनाम्।
दृष्ट्वा तां रूपसंपन्नां भीमो विस्मयमागतः॥ 1-164-29(7492)
उपचारगुणैर्युक्तां ललितैर्हाससंमितैः।
समीपमुपसंप्राप्य भीमं साथ वरानता॥ 1-164-30(7493)
वचो वचनवेलायां भीमं प्रोवाच भामिनी।'
लज्जया नम्यमानेव सर्वाभरणभूषिता॥ 1-164-31(7494)
स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत्।
कुतस्त्वमसि संप्राप्तः कश्चासि पुरुषर्षभ॥ 1-164-32(7495)
क इमे शेरते चेह पुरुषा देवरूपिणः।
केयं वै बृहती श्यामा सुकुमारी तवानघ॥ 1-164-33(7496)
शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा।
नेदं जानीथ गहनं वनं राक्षससेवितम्॥ 1-164-34(7497)
वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः॥ 1-164-35(7498)
तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा।
बिभक्षयिषता मांसं युष्माकममरोपमाः॥ 1-164-36(7499)
साऽहं त्वमभिसंप्रेक्ष्य देवगर्भसमप्रभम्।
नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते॥ 1-164-37(7500)
एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर।
कामोपहतचित्तां हि भजमानां भजस्व माम्॥ 1-164-38(7501)
त्रास्यामि त्वां महाबाहो राक्षसात्पुरुषादकात्।
वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ॥ 1-164-39(7502)
`इच्छामि वीर भद्रं ते मा मे प्राणान्विहासिषः।
त्वया ह्यहं परित्यक्ता न जीवेयमरिन्दम॥' 1-164-40(7503)
अन्तरिक्षचरी ह्यस्मि कामतो विचरामि च।
अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह॥ 1-164-41(7504)
भीमसेन उवाच। 1-164-42x(956)
`एष ज्येष्ठो मम भ्राता मान्यः परमको गुरुः।
अनिविष्टो हि तन्नाहं परिविद्यां कथंचन॥' 1-164-42(7505)
मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानपि।
परित्यजेत कोन्वद्य प्रभवन्निह राक्षसि॥ 1-164-43(7506)
को हि सुप्तानिमान्भ्रातॄन्दत्त्वा राक्षसभोजनम्।
मातरं च नरो गच्छेत्कामार्त इव मद्विधः॥ 1-164-44(7507)
राक्षस्युवाच। 1-164-45x(957)
`एकं त्वां मोक्षयिष्यामि सह मात्रा परन्तप।
सोदरानुत्सृजैनांस्त्वमारोह जघनं मम॥ 1-164-45(7508)
भीम उवाच। 1-164-46x(958)
नाहं जीवितुमाशंसे भ्रातॄनुत्सृज्य राक्षसि।
यथाश्रद्धं व्रजैका हि विप्रियं मे प्रभाषसे॥ 1-164-46(7509)
राक्षस्युवाच।' 1-164-47x(959)
यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय।
मोक्षयिष्याम्यहं कामं राक्षसात्पुरुषादकात्॥ 1-164-47(7510)
भीमसेन उवाच। 1-164-48x(960)
सुखसुप्तान्वने भ्रातॄन्मातरं चैव राक्षसि।
न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः॥ 1-164-48(7511)
न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम्।
न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने॥ 1-164-49(7512)
गच्छ वा तिष्ठ वा भद्रे यद्वा पीच्छसि तत्कुरु।
तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम्॥ ॥ 1-164-50(7513)

इति श्रीमन्महाभारते आदिपर्वणि हिडिम्बवधपर्वणि चतुःषष्ट्यधिकशततमोऽध्यायः॥ 164 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-164-4 यदृच्छया सालवृक्षं समाश्रित इत्यन्वयः॥ 1-164-10 धमनीं नाडीम्॥ 1-164-21 श्यामः तरुणः॥ 1-164-36 बिभक्षयिषता भक्षयितुमिच्छता॥ चतुःषष्ट्यधिकशततमोऽध्यायः॥ 164 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.